Poems

Rachayema samskrita bhavanam (रचयेम संस्कृत भवनम्)

Lyrics

ग्रामे नगरे समस्तराष्ट्रे

रचयेम संस्कृत भवनम्‌

इष्टिकां विना मृत्तिकां विना

केवलसम्भाषणविधया

संस्कृतसम्भाषणकलया

रचयेम संस्कृतभवनम्‌ | रचयेम संस्कृत भवनम्‌ ॥

शिशुबालानां स्मितमृदुवचने

युवयुवतीनां मन्जुभाषेण

वृद्धगुरूणां वत्सलहृदये

रचयेम संस्कृतभवनम्‌ | रचयेम संस्कृत भवनम्‌ ॥

ग्रामे नगरे समस्तराष्ट्रे ...

अरूणोदयतः सुप्रभातम्‌

शुभरात्रिं निशि संवदेम

दिवानिशं संस्कृतवचनेन

रचयेम संस्कृतभवनम्‌ | रचयेम संस्कृतभवनम्‌ ॥

ग्रामे नगरे समस्तराष्ट्रे ...

सोदर - सोदरी - भाव – बन्धुरं

मातृप्रेमतो बहुजनरूचिरं

वचनललितं श्रवणमधुरं

रचयेम संस्कृतभवनम्‌ | रचयेम संस्कृतभवनम्‌ ॥

ग्रामे नगरे समस्तराष्ट्रे ...

मूलशिला सम्भाषणमस्य

हिन्दुजनैक्यं शिखरमुन्नतम्‌

सोपानं श्रवणादिविधानम्‌

रचयेम संस्कृतभवनम्‌ | रचयेम संस्कृतभवनम्‌ ॥

ग्रामे नगरे समस्तराष्ट्रे ...

Surasa subodhA (सुरससुबोधा)

Lyrics

सुरससुबोधा विश्वमनोज्ञा

ललिता हृद्या रमणीया।

अमृतवाणी संस्कृतभाषा

नैव क्लिष्टा न च कठिना। नैव क्लिष्टा ... ॥

कविकोकिल-वाल्मीकि-विरचिता

रामायणरमणीय कथा।

अतीव-सरला मधुरमंजुला

नैव क्लिष्टा न च कठिना। नैव क्लिष्टा ... ॥

व्यासविरचिता गणेशलिखिता

महाभारते पुण्यकथा।

कौरव-पाण्डव-संरमथिता

नैव क्लिष्टा न च कठिना। नैव क्लिष्टा ... ॥

कुरूक्षेत्र-समरांगण-गीता

विश्ववन्दिता भगवद्‌गीता

अमृतमधुरा कर्मदीपिका

नैव क्लिष्टा न च कठिना। नैव क्लिष्टा ... ॥

कविकुलगुरू-नव-रसोन्मेषजा

ऋतु-रघु-कुमार-कविता।

विक्रम-शाकुन्तल-मालविका

नैव क्लिष्टा न च कठिना। नैव क्लिष्टा ... ॥

ManasA satatam smaraNeeyam (मनसा सततं स्मरणीयम्)

Lyrics

मनसा सततम् स्मरणीयम्

वचसा सततम् वदनीयम्

लोकहितम् मम करणीयम्

लोकहितम् मम करणीयम् ॥

न भोग भवने रमणीयम्

न च सुख शयने शयनीयम्

अहर्निशम् जागरणीयम्

लोकहितम् मम करणीयम्

लोकहितम् मम करणीयम् ॥

न जातु दुःखम् गणनीयम्

न च निज सौख्यम् मननीयम्

कार्य क्षेत्रे त्वरणीयम्

लोकहितम् मम करणीयम्

लोकहितम् मम करणीयम् ॥

दुःख सागरे तरणीयम्

कष्ट पर्वते चरणीयम्

विपत्ति विपिने भ्रमणीयम्

लोकहितम् मम करणीयम्

लोकहितम् मम करणीयम् ॥

गहनारण्ये घनान्धकारे

बन्धु जना ये स्थिता गह्वरे

तत्र मया सन्चरणीयम्

लोकहितम् मम करणीयम्

लोकहितम् मम करणीयम् ॥